Navgrah Stotra Stotra Sangrah

Navgrah Stotra Stotra Sangrah

नवग्रह स्तोत्र
स्त्रोत्र संग्रह
II नवग्रह स्तोत्र II


जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II


दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II


धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II


प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II


देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II


हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II


नीलांजन समाभासं रविपुत्रं यमाग्रजम् I
छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II


अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II


पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II


इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II
II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

||नवग्रहपीडाहरस्तोत्र||
श्री गणेशाय नमः|


ग्रहाणामादिरादित्यो लोकरक्षणकारक: |
विषमस्थानसम्भूतां पीडां हरतु मे रवि: ||


रोहिणीशः सुधामूर्ति: सुधागत्रः सुधाशनः |
विषमस्थानसंभूतां पीडां हरतु मे विधु: ||


भूमिपुत्रो महातेजां जगतां भयकृत सदा |
वृष्टिकृदृष्टीहर्ता च पीडां हरतु मे कुज: ||


उत्पातरुपो जगतां चन्द्रपुत्रो महाद्युति: |
सूर्यप्रियकरो विद्वान पीडां हरतु मे बुधः||


देवमन्त्री विशालाक्षः सदा लोकहिते रतः |
अनेकशिष्येसम्पूर्णः पीडां हरतु मे गुरु: ||


दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामति: |
प्रभुस्ताराग्रहाणांश्च पीडां हरतु मे भृगु: ||


सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः |
मन्दचारः प्रसन्नात्मा, पीडां हरतु मे शनि: ||


महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः |
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी: ||


अनेकरुपवर्णैश्च शतशोSथ सहस्त्रशः |
उत्पातरुपो जगतां पीडां हरतु मे तमः ||

More in Stotra Sangrah

Stay Connected With Divine Wisdom

Subscribe to receive spiritual insights, festival alerts, exclusive offers and puja reminders directly in your inbox.

100% Authentic Products
Secure Payment & Easy Booking
Pan India Delivery
Easy Returns Hassle Free
24/7 Customer Support