ॠणमोचनमहागणपतिस्तोत्रम् ||
श्रीगणेशायनमः|| ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषि: ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ||
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये ||१||
महागणपतिं देवं महासत्यं महाबलं || महाविध्नहरं सौम्यं नमामि ॠणामुक्तये ||२||
एकाक्षरं एकदंतं एकब्रह्मसनातनं || एकमेवारव्दितीयं च नममि ॠणामुक्तये ||३||
रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं || रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये ||४||
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं || कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||५||
पीतांबरं पीतवर्णं पीतगंधानुलेपनं || पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||६||
धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं || धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये ||७||
सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं || सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||८||
भद्रजातं च रुपं च पाशांकुशधरं शुभं || सर्वविघ्नहरं देवं नमामि ॠणमुक्तये ||९||
यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः || षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति ||१०||
इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् |
एकदंतस्तोत्रम्
श्रीगणेशायनम: ॥
मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: । भृग्वादयश्च मुनय एकदंतं समाययु: ॥ १ ॥
प्रणम्य तं प्रपूज्यदौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गणेश्वरम् ॥ २ ॥
देवर्षय ऊचु: ॥ सदात्मरूपं सकलादिभूतममायिनं सोहमचिंत्यबोधम् ।अनादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजाम: ॥ ३ ॥
अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् । ह्रदिप्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजाम: ॥ ४ ॥
विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् । सदा निरालंबसमाधिगम्यं तमेकदंतं० ॥ ५ ॥
स्वबिंबभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदंतं० ॥ ६ ॥
त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदंतं श० ॥ ७ ॥
त्वदीयसत्ताधरमेकदंतं गणेशमेकं त्रयबोधितारम् । सेवंत आपुस्तमजं त्रिसंस्थास्तमेकदंतं० ॥ ८ ॥
ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै। आनंदरूपं समभावसंस्थं तमेक० ॥ ९ ॥
तदेव विश्वं कृपया तवैव संभूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेक० ॥ १० ॥
ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनंतमास्यं तमेक० ॥ ११ ॥
तदेव स्वप्नं तपसा गणेश संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवापि तमेक० ॥ १२ ॥
संप्रेरितं तच्च त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेक० ॥ १३ ॥
जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेक० ॥ १४ ॥
एवं च सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेक० ॥ १५ ॥
त्वदाज्ञया भांति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभांति खे वै । आधारहीनानि त्वया धृतानि तमेक० ॥ १६ ॥
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: । त्वदाज्ञया संहरको हरोऽपि तमेक० ॥ १७ ॥
यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽप: प्रवहंति नद्य: । सीमां सदा रक्षति वै समुद्रस्तमेक० ॥ १८ ॥
यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेक० ॥ १९ ॥
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च काम: । यदाज्ञया कालधरोऽर्यमा च तमेक० ॥ २० ॥
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽर्ग्निजठरादिसंस्थ: । यदाज्ञया वै सचराचरं च तमेक० ॥ २१ ॥
सर्वांतरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनंतरूपं ह्रदि बोधकं वै तमेक० ॥ २२ ॥
यं योगिनो योगबलेन साध्यं कुर्वति तं क:स्तवनेन स्तौति । अत: प्रणामेन सुसिद्धिदोऽस्तु तमेक० ॥ २३ ॥
गृत्समद उवाच ॥ एवं स्तुत्वा च प्रह्लाद देवा: समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुता: ॥ २४ ॥
स तानुवाच प्रीतात्मा ह्येकदंत: स्तवेन वै । जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ॥ २५ ॥
एकदंत उवाच॥ प्रसन्नोऽस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिपदं मम । भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ॥ २७ ॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: । पुत्रपौत्रादिकं सर्व लभते धनधान्यकम् ॥ २८ ॥
गजाश्वादिकमत्यंतं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥ २९ ॥
मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥
एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥
न तस्य दुर्लभं कित्र्चित्र्त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत्॥ ३२ ॥
नित्यं य: पठते स्तोत्रं ब्रह्मभूत: स वै नर: । तस्य दर्शनत: सर्वे देवा: पूता भवंति वै ॥ ३३ ॥
एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: । ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥
। इति श्रीएकदंतस्तोत्र संपूर्णम् ।
गणपती अथर्वशीर्ष
स्तुति संग्रह
॥ श्री गणेशाय नमः ॥
ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्तासि ॥ त्वमेव केवलं धर्तासि ॥
त्वमेव केवलं हर्तासि ॥ त्वमेव सर्वं खल्विदं ब्रम्हासि ॥
त्वं साक्षादात्मासि नित्यम् ॥ १ ॥ऋतं वच्मि ॥ सत्यं वच्मि ॥ २ ॥
अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥ अव दातारम् ॥
अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ अव पश्चात्तात् ॥
अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥
त्वं वाग्ड़मयस्त्वं चिन्मयः ॥ त्वं आनंदमयस्त्वं ब्रम्हमयः ॥
त्वं सच्चिदानंदाद्वितीयोसि ॥ त्वं प्रत्यक्षं ब्रम्हासि ॥
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापो नलो निलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मूलाधार: स्थितोसि नित्यम ॥ त्वं शक्ति त्रयात्मकः ॥
त्वां योगिनो ध्यायन्ती नित्यम ॥
त्वं ब्रम्हास्त्वंविष्णुस्त्वंरुद्रस्त्वंइंद्रस्त्वं
अग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रम्हभूर्भुवस्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्यं वर्णादिं तदनंतरम् ॥ अनुस्वारः परतरः ॥
अर्धेंदुलसितम् ॥ तारेण ऋध्दम् ॥
एतत्तव मनुस्वरुपम् ॥ गकारः पूर्वरुपम् ॥
अकारो मध्यमरुपम् ॥ अनुस्वारश्चान्त्यरुपम् ॥
बिन्दुरुत्तररुपम् ॥ नादःसंधानम् ॥
संहितासंधी: ॥ सैषा गणेश विद्या ॥
गणकऋषि: निछॄद् गायत्री छंदः ॥
गणपतीर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥
एकदंताय विद्महे वक्रतुंडाय धीमहि ॥ तन्नो दंति: प्रचोदयात् ॥ ८ ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तै बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् ॥
भक्तानुकंपिन देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादो प्रकॄते: पुरुषात्परम् ॥
एवं ध्यायति यो नित्यम् स योगी योगिनां वरः ॥ ९ ॥
नमो व्रातपतये । नमो गणपतये नमः । प्रमथपतये ।
नमस्ते अस्तु लंबोदराय एकदंताय ॥ विघ्ननाशिने शिवसुताय ॥
श्री वरदमूर्तये नमः ॥ १० ॥
गणेश अथर्वशीर्ष
गणपति अथर्वशीर्ष संस्कृत में रचित एक लघु उपनिषद है। इस उपनिषद में गणेश को परम ब्रह्म बताया गया है। यह अथर्ववेद का भाग है।अथर्वशीर्ष में दस ऋचाएं हैं।
गणपति का आधिदैविक स्वरूप
ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्वमसि ॥ त्वमेव केवलं कर्तासि ॥ त्वमेव केवलं धर्तासि ॥ त्वमेव केवलं हर्तासि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्मासि नित्यम् ॥१॥
सत्य कथन
ऋतम् वच्मि ॥ सत्यं वच्मि ॥ २॥
रक्षण के लिये प्रार्थना
अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥ अव दातारम् ॥ अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समन्तात् ॥३॥
गणपतिजी का आध्यात्मिक स्वरूप
त्वं वाङ्मयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
गणपति का स्वरूप
सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥५॥
त्वं गुणत्रयातीतः। त्वं अवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारस्थितोऽसि नित्यम् ॥ त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम् ॥ त्वं ब्रहमा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥६॥
गणेशविद्या
गणादिन् पूर्वमुच्चार्य वर्णादिस्तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण ऋद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः संधानम् ॥ संहिता सन्धिः। सैषा गणेशविद्या। गणक ऋषिः। निचृद्गायत्रीछंदः गणपतिर्देवता। ॐ गं गणपतये नमः ॥७॥
एकदन्ताय विद्महे वक्रतुंडाय धीमहि। तन्नो दन्ती प्रचोदयात् ॥ ८ ॥
एकदन्तं चतुर्हस्तम् पाशमं कुशधारिणम् ॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। रक्तम् लम्बोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्। भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
नमन
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥
फलश्रुति
एतदथर्वशीर्षम् योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वविघ्नैर्न बाध्यते ॥ स सर्वतः सुखमेधते ॥ स पञ्चमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतम् पापान् नाशयति ॥ प्रातरधीयानो रात्रिकृतम् पापान् नाशयति ॥ सायं प्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विंदति ॥
इदम् अथर्वशीर्षम् अशिष्याय न देयम्॥ यो यदि मोहाद्दास्यति ॥ स पापीयान् भवति ॥ सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत्॥११॥
अनेन गणपतिम् अभिषिञ्चति ॥ स वाग्मी भवति ॥ चतुर्थ्यामनश्नञ्जपति ॥ स विद्यावान्भवति ॥ इत्यथर्वणवाक्यम्॥ ब्रह्माद्यावरणं विद्यात्॥ न बिभेति कदाचनेति ॥ १२ ॥
यो दूर्वाङ्कुरैर्यजति ॥ स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति ॥ स यशोवान्भवति ॥ स मेधावान्भवति ॥ यो मोदकसहस्रेण यजति ॥ स वाञ्छितफलमवाप्नोति ॥
यः साज्यसमिद्भिर्यजति ॥ स सर्वम् लभते स सर्वम् लभते ॥ अष्टौ ब्राह्मणान् सम्यग्राहयित्वा ॥ सूर्यवर्चस्वी भवति ॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति ॥ महाविघ्नात्प्रमुच्यते। महादोषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥१३॥
अर्थ
गणपति को नमस्कार है, तुम्हीं प्रत्यक्ष तत्त्व हो, तुम्हीं केवल कर्त्ता, तुम्हीं केवल धारणकर्ता और तुम्हीं केवल संहारकर्ता हो, तुम्हीं केवल समस्त विश्वरुप ब्रह्म हो और तुम्हीं साक्षात् नित्य आत्मा हो। ॥ १॥
॥ स्वरूप तत्त्व ॥
यथार्थ कहता हूँ। सत्य कहता हूँ। ॥ २॥
तुम मेरी रक्षा करो। वक्ता की रक्षा करो। श्रोता की रक्षा करो। दाता की रक्षा करो। धाता की रक्षा करो। षडंग वेदविद् आचार्य की रक्षा करो। शिष्य रक्षा करो। पीछे से रक्षा करो। आगे से रक्षा करो। उत्तर (वाम भाग) की रक्षा करो। दक्षिण भाग की रक्षा करो। ऊपर से रक्षा करो। नीचे की ओर से रक्षा करो। सर्वतोभाव से मेरी रक्षा करो। सब दिशाओं से मेरी रक्षा करो। ॥ ३॥
तुम वाङ्मय हो, तुम चिन्मय हो। तुम आनन्दमय हो। तुम ब्रह्ममय हो। तुम सच्चिदानन्द अद्वितीय परमात्मा हो। तुम प्रत्यक्ष ब्रह्म हो। तुम ज्ञानमय हो, विज्ञानमय हो। ॥ ४॥
यह सारा जगत् तुमसे उत्पन्न होता है। यह सारा जगत् तुमसे सुरक्षित रहता है। यह सारा जगत् तुममें लीन होता है। यह अखिल विश्व तुममें ही प्रतीत होता है। तुम्हीं भूमि, जल, अग्नि और आकाश हो। तुम्हीं परा, पश्यन्ती, मध्यमा और वैखरी चतुर्विध वाक् हो। ॥ ५॥
तुम सत्त्व-रज-तम-इन तीनों गुणों से परे हो। तुम भूत-भविष्य-वर्तमान-इन तीनों कालों से परे हो। तुम स्थूल, सूक्ष्म और कारण- इन तीनों देहों से परे हो। तुम नित्य मूलाधार चक्र में स्थित हो। तुम प्रभु-शक्ति, उत्साह-शक्ति और मन्त्र-शक्ति- इन तीनों शक्तियों से संयुक्त हो। योगिजन नित्य तुम्हारा ध्यान करते हैं। तुम ब्रह्मा हो। तुम विष्णु हो। तुम रुद्र हो। तुम इन्द्र हो। तुम अग्नि हो। तुम वायु हो। तुम सूर्य हो। तुम चन्द्रमा हो। तुम (सगूण) ब्रह्म हो, तुम (निर्गुण) त्रिपाद भूः भुवः स्वः एवं प्रणव हो। ॥ ६॥
॥ गणेश मंत्र ॥
‘गण’ शब्द के आदि अक्षर गकार का पहले उच्चारण करके अनन्तर आदिवर्ण अकार का उच्चारण करें। उसके बाद अनुस्वार रहे। इस प्रकार अर्धचन्द्र से पहले शोभित जो ‘गं’ है, वह ओंकार के द्वारा रुद्ध हो, अर्थात् उसके पहले और पीछे भी ओंकार हो। यही तुम्हारे मन्त्र का स्वरुप (ॐ गं ॐ) है। ‘गकार’ पूर्वरुप है, ‘अकार’ मध्यमरुप है, ‘अनुस्वार’ अन्त्य रुप है। ‘बिन्दु’ उत्तररुप है। ‘नाद’ संधान है। संहिता’ संधि है। ऐसी यह गणेशविद्या है। इस विद्या के गणक ऋषि हैं। निचृद् गायत्री छन्द है और गणपति देवता है। मन्त्र है- ‘ॐ गं गणपतये नमः” ॥ ७॥
॥ गणेश गायत्री ॥
एकदन्त को हम जानते हैं, वक्रतुण्ड का हम ध्यान करते हैं। दन्ती हमको उस ज्ञान और ध्यान में प्रेरित करें। ॥ ८॥
॥ गणेश रूप (ध्यान)॥
गणपतिदेव एकदन्त और चर्तुबाहु हैं। वे अपने चार हाथों में पाश, अंकुश, दन्त और वरमुद्रा धारण करते हैं। उनके ध्वज में मूषक का चिह्न है। वे रक्तवर्ण, लम्बोदर, शूर्पकर्ण तथा रक्तवस्त्रधारी हैं। रक्तचन्दन के द्वारा उनके अंग अनुलिप्त हैं। वे रक्तवर्ण के पुष्पों द्वारा सुपूजित हैं। भक्तों की कामना पूर्ण करने वाले, ज्योतिर्मय, जगत् के कारण, अच्युत तथा प्रकृति और पुरुष से परे विद्यमान वे पुरुषोत्तम सृष्टि के आदि में आविर्भूत हुए। इनका जो इस प्रकार नित्य ध्यान करता है, वह योगी योगियों में श्रेष्ठ है। ॥ ९॥
॥ अष्ट नाम गणपति ॥
व्रातपति, गणपति, प्रमथपति, लम्बोदर, एकदन्त, विघ्ननाशक, शिवतनय तथा वरदमूर्ति को नमस्कार है। ॥ १०॥
॥ फलश्रुति ॥
इस अथर्वशीर्ष का जो पाठ करता है, वह ब्रह्मीभूत होता है, वह किसी प्रकार के विघ्नों से बाधित नहीं होता, वह सर्वतोभावेन सुखी होता है, वह पंच महापापों से मुक्त हो जाता है। सायंकाल इसका अध्ययन करनेवाला दिन में किये हुए पापों का नाश करता है, प्रातःकाल पाठ करनेवाला रात्रि में किये हुए पापों का नाश करता है। सायं और प्रातःकाल पाठ करने वाला निष्पाप हो जाता है। (सदा) सर्वत्र पाठ करनेवाले सभी विघ्नों से मुक्त हो जाता है एवं धर्म, अर्थ, काम और मोक्ष- इन चारों पुरुषार्थों को प्राप्त करता है। यह अथर्वशीर्ष इसको नहीं देना चाहिये, जो शिष्य न हो। जो मोहवश अशिष्य को उपदेश देगा, वह महापापी होगा। इसकी १००० आवृत्ति करने से उपासक जो कामना करेगा, इसके द्वारा उसे सिद्ध कर लेगा। ॥ ११॥
(विविध प्रयोग)
जो इस मन्त्र के द्वारा श्रीगणपति का अभिषेक करता है, वह वाग्मी हो जाता है। जो चतुर्थी तिथि में उपवास कर जप करता है, वह विद्यावान् हो जाता है। यह अथर्वण-वाक्य है। जो ब्रह्मादि आवरण को जानता है, वह कभी भयभीत नहीं होता। ॥ १२॥
(यज्ञ प्रयोग)
जो दुर्वांकुरों द्वारा यजन करता है, वह कुबेर के समान हो जाता है। जो लाजा के द्वारा यजन करता है, वह यशस्वी होता है, वह मेधावान होता है। जो सहस्त्र मोदकों के द्वारा यजन करता है, वह मनोवाञ्छित फल प्राप्त करता है। जो घृताक्त समिधा के द्वारा हवन करता है, वह सब कुछ प्राप्त करता है, वह सब कुछ प्राप्त करता है। ॥ १३॥
(अन्य प्रयोग)
जो आठ ब्राह्मणों को इस उपनिषद् का सम्यक ग्रहण करा देता है, वह सूर्य के समान तेज-सम्पन्न होता है। सूर्यग्रहण के समय महानदी में अथवा प्रतिमा के निकट इस उपनिषद् का जप करके साधक सिद्धमन्त्र हो जाता है। सम्पूर्ण महाविघ्नों से मुक्त हो जाता है। महापापों से मुक्त हो जाता है। महादोषों से मुक्त हो जाता है। वह सर्वविद् हो जाता है। जो इस प्रकार जानता है-वह सर्वविद् हो जाता है। ॥ १४॥
गणेशकवचम्
श्रीगणेशाय नम: ॥ गौर्युवाच ॥
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥
दैत्या नानाविधा दुष्टा: साधुदेवद्रुह: खला: । अतोऽस्य कंठे किंचित्त्वं रक्षार्थ बद्धुमर्हसि ॥ २ ॥
मुनिरूवाच ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापरके तु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥
विनायक: शिखां पातु परमात्मा परात्पर: । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कट: ॥ ४ ॥
ललाटं कश्यप: पातु भ्रूयुगं तु महोदर: । नयने भालचंद्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥
जिल्हां पातु गणक्रीडश्चिबुकं गिरिजासुत: । वाचं विनायक: पातु दंतान रक्षतु दुर्मुख: ॥ ६ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थद: । गणेशस्तु मुखं कंठं पातु देवो गणंजय: ॥ ७ ॥
स्कंधौ पातु गजस्कंध: स्तनौ विघ्नविनाशन : । ह्रदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥
धराधर: पातु पार्श्वौ पृष्ठं विघ्नहर: शुभ:। लिंग गुह्यं सदा पातु वक्रतुण्डो महाबल: ॥ ९ ॥
गणक्रीडो जानुजंघे ऊरू मंगलमूर्तिमान् । एकदंतो महाबुद्धि: पादौ गुल्फौ सदाऽवतु ॥ १० ॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरक: । अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशन: ॥ ११ ॥
सर्वांगणि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतु: सदाऽवतु ॥ १२ ॥
आमोदस्त्वग्रत: पातु प्रमोद: पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायक: ॥ १३ ॥
दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वर: । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णक: ॥ १४ ॥
कौबेर्यां निधिप: पायादीशान्यामीशनन्दन: । दिवाऽव्यादेकदंतस्तु रात्रौ संध्यासु विघ्नह्रत् ॥ १५ ॥
राक्षसासुरवेतालग्रहभूतपिशाचत:। पाशांकुशधर: पातु रज:सत्त्वतम:स्मृती : ॥ १६ ॥
ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहदारान्सुतान सखीन् ॥ १७ ॥
सर्वायुधधर: क्षेत्रं मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥
भूर्जपत्रे लिखित्वेदं य: कंठे धारयेत्सुधी: । न भयं जायते तस्य यक्षरक्ष:पिशाचत: ॥ १९ ॥
त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद् ध्रुवम् । मरणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥ २१ ॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलमवाप्नोति साधको नात्र संशय: ॥ २२ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि य: । कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥
राजदर्शनवेलायां पठेदेतत्रिवारत: । स राजानं वशं नीत्वा प्रकृतित्र्च सभां जयेत् ॥ २४ ॥
इदं गणेशकवचं काश्यपेन समीरितम् । मुद्गलाय च तेनाथ मांडव्याय महर्षये ॥ २५ ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् । राक्षसासुरवेतालदैत्यदानवसंभवम ॥ २७ ॥
। इति श्रीगणेशपुराणे गणेशकवचं संपूर्णम् ।
|| श्री संकटनाशनं गणपतिस्तोत्रं ||
गणपति आदिदेव हैं जिन्होंने हर युग में अलग-अलग अवतार लिया. गणेश भगवान गणों के स्वामी हैं इस लिए इनका एक नाम गणपति भी है. ज्योतिष में इनको केतु का देवता माना जाता है और जो भी संसार के साधन हैं, उनके स्वामी श्री गणेश जी हैं. जीवन में प्रत्येक शुभ कार्य प्रारम्भ करने के पहले गणेश का ही पूजन किया जाता है. इससे सभी कार्य पूर्णता को प्रदान करते हैं. प्रथम पूजनीय श्री गणेश जी को विनायक, विघ्नेश्वर, गणपति, लंबोदर के नाम से भी जाना जाता हैं।
|| श्री संकटनाशनं गणपतिस्तोत्रं ||
नारदोवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥2॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥3॥
नवमं भालचंद्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥
द्वादशेतानि नामानि त्रिसंध्यं यरू पठेन्नररू
न च विघ्नभयं तस्य सर्वसिध्दीकर प्रभो ॥5॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥7॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
संवत्सरेण सिध्दीं च लभते नात्र संशयरू ॥8॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यरू समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतरू ॥9॥
श्री नारदपुराणे संकटनाशनं नाम श्री गणपतिस्तोत्रं
गणेश जी का संतान प्राप्ति स्तोत्रं...
नमोस्तु गण नाथाय सिद्धि बुद्धि युताय च। सर्व प्रदाय देवाय पुत्र वृद्धि प्रदाय च।
गुरु दराय गुरवे गोप्त्रे गुह्य सिताय ते। गोप्याय गोपिता शेष भुवनाय चिदात्मने ॥
विश्वमूलाय भव्याय विश्व स्रष्टि कराय ते। नमो नमस्ते सत्याय सत्य पूर्णाय शुन्द्दिने ॥
एकदंताय शुद्धाय सुमुखाय नमो नमः । प्रपन्न जनपालनाय प्राण तार्ति विनाशिने ॥
शरणम् भवं देवेश संतति सु दृढं कुरु। भविष्यन्ति च ये पुत्रा मत्कुले गण नायक ॥
ते सर्वे तव पूजार्थ निरताः स्युर्वरो मतः । पुत्रप्रद मिदं स्तोत्रं सर्व सिद्धि प्रदायकं॥
© Copyright 2024 AstroSane, Varanasi | Powered by : Max Multisoft