॥ अथ श्री महालक्ष्म्यष्टकम् ॥
श्रीगणेशाय नम: ॥ इंद्र उवाच ॥
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
नमस्ते गरुडारुढे कोलासुर भयंकरी । सर्वपापहरे देवी महालक्ष्मि नमोऽस्तुते ॥२॥
सर्वज्ञे सर्ववरदे सर्वसुष्टभयंकरी । सर्वदु:खहरे देवी महालक्ष्मि नमोऽस्तुते ॥३॥
सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनि । मंत्रमूर्ते सदा देवी महालक्ष्मि नमोऽस्तुते ॥४॥
आद्यंतरहिते देवी आद्यशक्ति महेश्वरि । योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥५॥
शूल सूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवी महालक्ष्मि नमोऽस्तुते ॥६॥
पद्मासनस्थिते देवी परब्रह्मस्वरुपिणि । परमेशि जगन्मातार्महालक्ष्मि नमोऽस्तुते ॥७॥
श्वेतांबरधरे देवी नानालंकार भूषिते । जगत्स्थिते जगन्मातार्महालक्ष्मि नमोऽस्तुते ॥८॥
महालक्ष्म्यष्टकं स्तोत्रं य: पठेद्भक्तिमान्नर: । सर्वसिद्धिमवाप्नोति राज्य प्राप्तेति सर्वदा ॥९॥
एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं य: पठेन्नित्यं धनधान्यसमन्वित: ॥१०॥
त्रिकालं य: पठेन्नित्यं महाशत्रुंविनाशनम् । महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥ इतिंद्रकृत: श्रीमहालक्ष्म्यष्टकस्तव: संपूर्ण: ॥
॥ अन्नपूर्णास्तोत्रम् ॥
नित्यानंदकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी l
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मिरागुरूवासिता रूचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ll२॥
योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवांछनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ll३॥
कैलासाचलकन्दरालयकरी गौरी उमाशंकरी
कौमारी निगमार्थगोचरकरी ॐ कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ll४॥
दृश्यादृश्यविभूतवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी ।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ll५॥
उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ll६॥
आदिक्षान्तिसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरात्रिपुरेश्वरी त्रिनयनी नित्यांकुरा शर्वरी ।
कामाकांक्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥७॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामा स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी दशाशुभहरी काशिपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥८॥
चन्द्रार्कालयकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुंडलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसांकुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥९॥
क्षत्रत्राणकरी महाsभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१०॥
भगवति भवरोगात्पीडितं दुष्कृतोत्थात्
सुतदुहितृकलत्रोपद्रवेणानुयातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तं
सकलभुवनमातस्त्राहि मामों नमस्ते ॥११॥
माहेश्वरीमाश्रितकल्पवल्ली-
महम्भवोच्छेदकरीं भवानीम् ।
क्षुधार्तजायातनयाद्दुपेत-
स्त्वामन्नपूर्णे शरणं प्रपद्द्ये ॥१२॥
दारिद्र्यदावानलदह्यमानं
पाह्यन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुधौ मज्जय मां त्वदीये
त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥१३॥
अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥१४॥
माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥१५॥
॥ इति श्रीमच्छंकराचार्यविरचितमन्नपूर्णास्तोत्रं संपूर्णम्
गायत्री स्तोत्र:
सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम
शिवाम आद्यां वंद्याम त्रिभुवन मयीं वेदजननीं
परां शक्तिं स्रष्टुं विविध विध रूपां गुण मयीं
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
विशुद्धां सत्त्वस्थाम अखिल दुरवस्थादिहरणीम्
निराकारां सारां सुविमल तपो मुर्तिं अतुलां
जगत् ज्येष्ठां श्रेष्ठां सुर असुर पूज्यां श्रुतिनुतां
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
तपो निष्ठां अभिष्टां स्वजनमन संताप शमनीम
दयामूर्तिं स्फूर्तिं यतितति प्रसादैक सुलभां
वरेण्यां पुण्यां तां निखिल भवबन्धाप हरणीं
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
सदा आराध्यां साध्यां सुमति मति विस्तारकरणीं
विशोकां आलोकां ह्रदयगत मोहान्धहरणीं
परां दिव्यां भव्यां अगम भव सिन्ध्वेक तरणीं
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
अजां द्वैतां त्रेतां विविध गुणरूपां सुविमलां
तमो हन्त्रीं तन्त्रीं श्रुति मधुरनादां रसमयीं
महामान्यां धन्यां सततकरूणाशील विभवां
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
जगत् धात्रीं पात्रीं सकल भव संहारकरणीं
सुवीरां धीरां तां सुविमलतपो राशि सरणीं
अनैकां ऐकां वै त्रयजगत् अधिष्ठान् पदवीं
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
प्रबुद्धां बुद्धां तां स्वजनयति जाड्यापहरणीं
हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीं
सुविद्यां निरवद्याममल गुणगाथां भगवतीं
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
अनन्तां शान्तां यां भजति वुध वृन्दः श्रुतिमयीम
सुगेयां ध्येयां यां स्मरति ह्रदि नित्यं सुरपतिः
सदा भक्त्या शक्त्या प्रणतमतिभिः प्रितिवशगां
भजे अम्बां गायत्रीं परम सुभगा नंदजननीम
शुद्ध चितः पठेद्यस्तु गायत्र्या अष्टकं शुभम्
अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति
तुलसी नामाष्टक
स्तुति संग्रह
वृंदा,वृन्दावनी,विश्वपुजिता,विश्वपावनी ।
पुष्पसारा,नंदिनी च तुलसी,कृष्णजीवनी ।।
नाम अष्टकं चैव स्त्रोत्र नामार्थ संयुतम।
य:पठेत तां सम्पूज्य सोभवमेघ फलं लभेत ।।
वृंदा,वृदावनी,विश्वपुजिता,विश्वपावनी,पुष्पसारा,नंदिनी,तुलसी और
कृष्णजीवनी येतुलसी के आठ प्रिय नाम हैं।जो कोई भी तुलसी की पूजा
करके इस नामाष्टक कापाठ करता हैं वह अश्वमेघ यज्ञ का फल प्राप्त करता हैं।
तुलसी भगवान् विष्णु को अति प्रिय मानाजाता हैं
और माँ लक्ष्मी विष्णु संग हमेशा रहतीहैं
इसलिए इस पौधे का महत्व औरभी बढ
जाता हैं । तुलसी को आठ नाम दिए गए हैं
यह आठ नाम निम्न श्लोक के रूपमें कहे जाते हैं ।
वृंदा,वृन्दावनी,विश्वपुजिता,विश्वपावनी ।
पुष्पसारा,नंदिनी च तुलसी,कृष्णजीवनी ।।
एत नाम अष्टकं चैव स्त्रोत्र नामार्थ संयुतम ।
य:पठेत तां सम्पूज्य सोभवमेघ फलं लभेत ।।
वृंदा,वृदावनी,विश्वपुजिता,विश्वपावनी,पुष्पसारा,
नंदिनी,तुलसी और कृष्णजीवनी येतुलसी के आठ प्रिय नाम हैं।
जो कोई भी तुलसी की पूजा करके इस नामाष्टक कापाठ करता हैं
वह अश्वमेघ यज्ञ का फल प्राप्त करता हैं।
*श्री शाकंभरी पञ्चकम्*
श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती ।
श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥
श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया ।
श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया ।
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥
श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता ।
शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥
कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा ।
कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना ।
कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥
भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी ।
भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥
भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा ।
भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥
रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा ।
राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी ।
रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥
श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं ।
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥
आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां ।
शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥
॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥
श्रीअन्नपूर्णास्तोत्रम्
स्त्रोत्र संग्रह
श्रीदेवि दर्शनीयेऽशा ऐद्याद्या अंबिके तव । भव्ये दत्ताभये ताभिर् र्हीं बीजेन नतानव ॥ १ ॥
गत्ये मात्रे नमस्तेऽस्तु श्रीगाये पूर्णसंविदे । वस मे योगिनि स्वांते क्लींमयेऽर्णेश्र्वरेश्र्वरि ॥ २ ॥
दक्षे सहस्त्रवक्त्रस्ते न वेत्ति सकलान्गुणान् । वदेत् कोरिःष्टदे सर्वान् मोक्षसंदात्रि ते गुणान् ॥ ३ ॥
धूताद्ये कृपया पाहि भगवत् पूज्य पादुके । तमः पूष्ण इवाविद्या गतापर्णे तवेक्षणात् ॥ ४ ॥
पतिता उध्दृतास्ते हि वरदे शंकरप्रिये । दयाजन्महराचेत्ते तिष्ठेद्धि कथमावृतिः ॥ ५ ॥
कस्ते चित्तार्तिहे वेत्ता मान्येऽमऽर मनोतिगे । मम ज्ञानं कियत्प्राज्ञि हे शंभुप्राणवल्लभे ॥ ६ ॥
लसद्वेदनुते द्वास्थश्र्ववद्गणय मामुमे । भ्रमप्रदार्थवादाऽयेरिप्राया वञ्चितोस्मि तेः ॥ ७ ॥
मर्त्योर्भोय इहांबाया अंके संल्लभतेर्थितम् । रक्षिता कः च मे ह्यार्ये नतेर्भो भेद दर्शिनि ॥ ८ ॥
वासना मुक्तिकृद्देवि पूर्णविज्ञानदायिनि । सुखदे नित्यमांगल्येऽर्णेशे ध्यानमुपाविश ॥ ९ ॥
देवा अर्दितशांत्यर्थमलं तेवैत्वदीरिताः । वासनागंधो मे मास्तु मानादेरार्तिदोत्र यः ॥ १० ॥
नंदिनी बलिनी ब्राह्मी भिक्षाभाग्यविवर्धिनी । दयाब्धिरोजस्विनीड्या लक्ष्मीस्त्वं सिद्धिरुपिणी ॥ ११ ॥
सत्येऽस्यंऽबा कृपांभोभिषिञ्चात्रघ्यधिपालके । रक्ष्यो बालः स्वको मात्रा तत्वतोर्थ ब्रवीमि ते ॥ १२ ॥
स्वल्पज्ञोऽपि शठोऽदांतो मंदो वाभिमतोऽपि वा । तीव्रमाशापरो वायं न चोपेक्षां शिवेर्हति ॥ १३ ॥
भिया नचोक्तवांन्शब्दान्देवेड्ये देहि कांक्षितम् । क्षुच्छांत्यै ज्ञानभिक्षात्रं हितज्ञे हि तमर्पय ॥ १४ ॥
कृपयाऽनस्तमितया देहि ते चरणे रतिम् । तपोदे सादरं याचे हितं मे पारदे कुरु ॥ १५ ॥
स्तवे तेगह्यशक्तं मां स्वान्ते शर्वप्रिये स्मर । वर्ये वरः स एवार्थो हार्दज्ञेऽतिथिवल्लभे ॥ १६ ॥
श्रीभगवतीस्तोत्रम्
श्रीभगवतीस्तोत्रम शक्ति रूपेण देवी भगवती दुर्गा की स्तुति में कहा गया स्तोत्र है। इसके अनेक उवाच हैं, जो कि निम्नलिखित हैं। यह एक धार्मिक पाठ है जिसकी रचना व्यास मुनि ने की थी। ऐसा माना जाता है कि जो पवित्र भाव से नियमपूर्वक इस व्यासकृत स्तोत्र का पाठ करता है अथवा शुद्ध भाव से घर पर ही पाठ करता है, उसके ऊपर भगवती सदा ही प्रसन्न रहती हैं।
स्तोत्र
जय भगवति देवि नमो वरदे, जय पापविनाशिनि बहुफलदे।
जय शुम्भनिशुम्भकपालधरे, प्रणमामि तु देवि नरार्तिहरे॥१॥
जय चन्द्रदिवाकरनेत्रधरे, जय पावकभूषितवक्त्रवरे।
जय भैरवदेहनिलीनपरे, जय अन्धकदैत्यविशोषकरे॥२॥
जय महिषविमर्दिनि शूलकरे, जय लोकसमस्तकपापहरे।
जय देवि पितामहविष्णुनते, जय भास्करशक्रशिरोऽवनते॥३॥
जय षण्मुखसायुधईशनुते, जय सागरगामिनि शम्भुनुते।
जय दुःखदरिद्रविनाशकरे, जय पुत्रकलत्रविवृद्धिकरे॥४॥
जय देवि समस्तशरीरधरे, जय नाकविदर्शिनि दुःखहरे।
जय व्याधिविनाशिनि मोक्ष करे, जय वाच्छितदायिनि सिद्धिवरे॥५॥
एतद्व्यासकृतं स्तोत्रं य: पठेन्नियतः शुचिः।
गृहे वा शुद्धभावेन प्रीता भगवती सदा॥६॥
इति व्यासकृतं श्रीभगवतीस्तोत्रं सम्पूर्णम्
श्रीयोगेश्र्वरीकवचम्
श्री गणेशाय नमः। श्री सरस्वत्यै नमः । श्री देव्युवाच ।
भगवन् सर्वमाख्यातं मंत्रतंत्रादिकं त्वया ।
योगिन्याः कवचं देव न कुत्रापि प्रकाशितम् ॥ १ ॥
श्रोतुमिच्छामि यत्नेन कृपापात्रं तवास्म्यहम् ।
कथयस्व महादेव यद्दहं प्राणवल्लभा ॥ २ ॥
ईश्र्वर उवाच ।
श्रृणु देवी महाविद्दां सर्व देवर्षिपूजिताम् ।
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ ३ ॥
सृष्टिं वितनुते ब्रह्मा संहर्ताsहं तथैव च ।
यस्याः स्मरणमात्रेण देवाः देवत्वमाप्नुयुः ॥ ४ ॥
रहस्यं श्रृणु वक्ष्यामि योगिन्याः प्राणवल्लभे ।
त्रैलोक्यसुंदरं नामं कवचं मंत्रविग्रहम् ॥ ५ ॥
श्री योगेश्र्वरीकवचमंत्रस्य महादेव ऋषिः।
अनुष्टुप् छंदः । श्री योगेश्र्वरी देवता ।
ऐं बीजम् । र्हीं शक्तिः । श्रीं कीलकम् ।
श्रीयोगेश्र्वरीप्रसादप्रीत्यर्थे । जपे विनियोगः ।
अथ न्यासः ।
महादेव ऋषये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
श्री योगेश्र्वरी देवतायै नमः ह्रदये ।
ऐं बीजाय नमः दक्षिणस्तने ।
र्हीं शक्तये नमः वामस्तने ।
श्रीं कीलकाय नमः नाभौ ।
ऐं अंगुष्ठाभ्यां नमः ह्रदयाय नमः।
र्हीं तर्जनीभ्यां नमः शिरसे स्वाहा ।
श्रीं मध्यमाभ्यां नमः शिखायै वषट् ।
ऐं अनामिकाभ्यां नमः कवचाय हुम् ।
र्हीं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौशट् ।
श्रीं करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ।
ध्यान
खड्गं पात्रं च मुसलं लांगलं च बिभर्ति सा ।
आख्याता रक्तचामुंडा देवी योगेश्र्वरीति च ॥ १ ॥ ।
मानसोपचारैः संपूज्य ।
लं पृथिव्यात्मकं श्रीयोगेश्र्वरीदेवतायै नमः गंधं परिकल्पयामि ।
हं आकाशात्मकं श्रीयोगेश्र्वरीदेवतायै नमः पुष्पं परिकल्पयामि ।
यं वाय्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः धूपं परिकल्पयामि ।
रं तेजात्मकं श्रीयोगेश्र्वरीदेवतायै नमः दीपं परिकल्पयामि ।
वं अमृतात्मकं श्रीयोगेश्र्वरीदेवतायै नमः नैवेद्दं परिकल्पयामि ।
सं सर्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः तांबुलादि सर्वोपचारान् परिकल्पयामि ।
अथ कवचम्
शिरो मे शांकरी पातु मूर्ध्नि नारायणी तथा ।
ऐं बीजं भालदेशे च र्हीं बीजं दक्षिणनेत्रे ॥ १ ॥
श्रीं बीजं वामनेत्रे च दक्षिणश्रोत्रे परास्मृता ।
वामश्रोत्रे नारसिंही नासामूलं च खड्गिनी ॥ २ ॥
नासिकां मानिनी पातु मुखं मेsवतु चाम्बिका ।
कपोलौ भूतसंहारी चिबुकं भ्रामरी तथा ॥ ३ ॥
कंण्ठं मे चण्डिका पातु ह्रदयं विंध्यवासिनी ।
उदरे गिरिजा पातु नाभिं मेsवतु भोगिनी ॥ ४ ॥
शुंभिनी पृष्ठदेशे तु स्कन्धयोः शूलधारिणी ।
हस्तयोर्योगिनी रक्षेत् कंबुकण्ठी गलं तथा ॥ ५ ॥
कट्ट्यां च सुन्दरी रक्षेत् गुह्यं गुह्येश्र्वरी तथा ।
कुंजिका पातु मे मेढ्ं पायुदेशं च शांभवी ॥ ६ ॥
भद्रकाली पातु चोरु जान्वो मेsवतु कालिका ।
जंघे पातु महाभीमा गुल्फाववतु शूलिनी ॥ ७ ॥
पादयोः श्रीधरी रक्षेत् सर्वांगेsवतु भोगिनी ।
रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ ८ ॥
चामुंडा चैव वाराही कौमारी वैष्णवी तथा ।
माहेश्र्वरी च सर्वाद्दा जयश्री मंड्गला तथा ॥ ९ ॥
रक्षतुश्र्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ।
इतीदं कवचं दिव्यं षण्मासात् सर्वसिध्दिदम् ॥ १० ॥
फलश्रुतिः
स्मरणात्कवचस्यास्य जयः सर्वत्र जायते ।
राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ ११ ॥
बंधने च महादुःखे जपेच्छत्रुसमागमे ।
प्रयोगं चाभिचारं च यो नरः कर्तृमिच्छति ॥ १२ ॥
आयुताश्र्च भवेत् सिद्धिः पठनात्कवचस्य तु ।
सर्वत्र लभते कीर्ति श्रीमान भवति धार्मिकः ॥ १३ ॥
भूर्जे विलिख्य कवचं गुटिका यस्तु धारयन् ।
मंत्रसिद्धिमवाप्नोति योगेश्र्वर्याः प्रसादतः ॥ १४ ॥
पुत्रवान् धनवान् श्रीमान नानाविद्दानिधिर्भवेत ।
अष्टोत्तरशतं जप्त्वा पुरश्र्चरणमस्य वै ॥ १५ ॥
सिद्धर्थं सर्वदा कुर्यात् योगिनी प्रीतिभाक् भवेत् ।
ब्रह्मास्त्रादीनि शाम्यन्ति तद्गात्रस्परशनात्ततः ॥ १६ ॥
इदं कवचमज्ञात्वा योगिनी भजते नरः ।
शतलक्षं जपित्वाsपि तस्य विद्दा न सिद्धयति ॥ १७ ॥
इति श्रीरुद्रयामले बहुरुपाष्टकप्रस्तावे ईश्र्वरपार्वतीसंवादे योगेश्र्वरी कवचं संपूर्णम् ॥
श्रीराधायाः
स्त्रोत्र संग्रह
त्वं देवी जगतां माता विष्णुमाया सनातनी ।
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ॥ १ ॥
कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरुपिणी ।
कृष्णभक्तिप्रदे राधे नमस्ते मङगलप्रदे ॥ २ ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम ।
पूजितासि मया सा च या श्रीकृष्णेन पूजिता ॥ ३ ॥
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।
रासे रासेश्र्वरीरुपा वृन्दा वृन्दावने वने ॥ ४ ॥
कृष्णप्रिया च गोलोके तुलसी कानने तु या ।
चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५ ॥
चन्द्रावली चन्द्रवने शतश्रृंङगे सतीति च ।
विरजादर्पहन्त्री च विरजातटकानने ॥ ६ ॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे ।
भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७ ॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि ।
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८ ॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी ।
सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९ ॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।
कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १० ॥
कलया तुलसी त्वं च गङगा भुवनपावनी ।
लोमकुपोद्भवा गोप्यः कलांशा रोहिणी रतिः ॥ ११ ॥
कलाकलांशरुपा च शतरुपा शची दितिः ।
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ॥ १२ ॥
देव्यश्र्च मुनिपत्न्यश्र्च त्वत्कलाकलया शुभे ।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ॥ १३ ॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।
पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४ ॥
॥ इति श्रीब्रह्मवैवर्ते श्रीराधायाः परीहारस्तोत्रं संपूर्णम् ॥
चर्पटपञ्जरिकास्तोत्रम्
स्त्रोत्र संग्रह
दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥
भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।
प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ॥१॥
अग्ने वह्निः पृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः ।
करतलभिक्षा तरुतलवासस्तदपि न मुञ्चत्याशापाशः ॥२॥
यावद् वित्तोपार्जनसक्तः तावन्निजपरिवारो रकतः ।
पश्चाध्दावति जर्जरदेहे वार्ता पृच्छति कोऽपि न गेहे ॥३॥
जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतशोकः ॥४॥
भगवदगीता किञ्चितधीता गङ्गाजललवकणिका पीता ।
सकृदपि यस्य मुरारिसमर्चा तस्या यमः किं कुरुते चर्चाम ॥५॥
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृध्दो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥६॥
बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः ।
वृध्दस्तावच्चिन्तामग्नः परे ब्रह्मणि कोऽपि न लग्नः ॥७॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे ॥८॥
पुनरपि रजनी पुनरपि दिवसः
पुनरपि पक्षः पुनरपि मासः ।
पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् ॥९॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्वे कः संसारः ॥१०॥
नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् ।
एतन्मांसवसादिविकारं मनसि विचारय वारम्वारम् ॥११॥
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥१२॥
गेयं गीतानामसह्स्रं ध्येयं श्रीपतिरुपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥१३॥
यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥१४॥
सुखतः क्रियते रामाभोगः पश्चाध्दन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥१५॥
रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः ।
नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥१६॥
कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥१७॥
॥ इति श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिकास्तोत्रं संपूर्णम् ॥
देवी कवच
॥ अथा देव्याः कवचम् ॥
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ॠषिः,अनुष्टुप् छन्दः ,
चामुन्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रातीर्थे सप्तश्तीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रम्होवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृनुष्व महामुने ॥ २ ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तन्न संशयः ॥ ८ ॥
प्रेतसंस्था तु चामुन्डा वाराही महिषासना ।
ऐन्द्री गजासमारुढा वैष्णवी गरुडासना ॥ ९ ॥
माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १० ॥
श्र्वेतरुपधरा देवी ईश्र्वरी वृषवाहना ।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ ११ ॥
इत्येता मतरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धरयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभ्यविनाशिनि ॥ १६ ॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥
दक्षिणेऽवतु वाराही नैॠत्यां खद्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायाव्यां मृगावाहिनी ॥ १८ ॥
उदीच्यां पातु कौबेरी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥
अजिता वामपार्श्वे तु द्क्षिणे चापराजिता ।
शिखामुद्द्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपौलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
स्कन्धयो: खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७ ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्र्वरी रक्षेत्कक्षौ रक्षेत्कुलेश्र्वरी ॥ २८ ॥
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ २९ ॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्र्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३० ॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङेघ महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१ ॥
गुल्फयोर्नारसिंही च पादपृष्टे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥
नखान् दंष्ट्राकराली च केशांश्र्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्र्वरी तथा ॥ ३३ ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्र्च पित्तं च मुकुटेश्र्वरी ॥ ३४ ॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ ३५ ॥
शुक्रं ब्रम्हाणी मे रक्षेच्छायां छत्रेश्र्वरी तथा ।
अहंकारं मनो बुध्दिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥
प्रणापानौ तथा व्याअनमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥
रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्र्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
गोत्रामिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३ ॥
तत्र तत्रार्थलाभश्र्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्र्चितम् ।
परमैश्र्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यं पठेत्प्रायतो नित्यं त्रिसन्ध्यम श्रद्धयान्वितः ॥ ४६ ॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वप्राजितः ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः । ४७ ॥
नश्यन्ति व्याधयः सर्वे लूताविस्फ़ोटकादयः ।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ४८ ॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले ।
भूचराः खेचराश्र्चेव जलजाश्र्चोपदेशिकाः ॥ ४९ ॥
सहजाः कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्र्च महाबलाः ॥ ५० ॥
ग्रहभूतपिशाचाश्च्च यक्षगन्धर्वराक्षसाः ।
ब्रम्हराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१ ॥
नश्यति दर्शनात्तस्य कवचे हृदि संस्थिते ।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३ ॥
यावभ्दूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रापौत्रिकी ॥ ५४ ॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥
लभते परम्म रुपं शिवेन सह मोदते ॥ ५६ ॥
॥ इति देव्याः कवचं सम्पूर्णम् ॥
देवीसूक्तम
स्त्रोत्र संग्रह
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्ना यै चेन्दुरुपिण्यै सुखायै सततं नमः ॥२॥
कल्याण्यै प्रणतां वृध्दै सिध्दयै कुर्मो नमो नमः ।
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यातै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥
या देवी सर्वभूतेषु विष्णुमायेति शाध्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥
या देवी सर्वभूतेषु बुध्दिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥
या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥
या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥
या देवी सर्वभूतेषु छायारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥
या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥
या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥
या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥
या देवी सर्वभूतेषु श्रध्दारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥
या देवी सर्वभूतेषु कान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥
या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥
या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥
या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥
या देवी सर्वभूतेषु भ्रांतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥
इंद्रियाणामधिष्ठात्री भूतानं चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥
चितिरुपेण या कृत्सनमेद्वयाप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्याभिहन्तु चापदः ॥२९॥
या सांप्रतं चोध्दतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।
या च तत्क्षणमेव हन्ति नः सर्वापदो भक्ति विनम्रमूर्तिभिः ॥३०॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्तत्कृतं जपम् ।
सिध्दिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥३१॥
इति देवीसूक्तम् समाप्तम् ।
देव्यपराधक्षमापनस्तोत्रम्
देव्यपराधक्षमापनस्तोत्रम् आदि गुरु शंकराचार्य द्वारा रचित सर्वश्रेष्ठ एवं कर्णप्रिय स्तुतियों में से एक है।
स्तोत्र
अथ देव्यपराधक्षमापनस्तोत्रम्
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पच्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम् ॥११॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
इति श्रीमच्छङ्कराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्
॥ धनलक्ष्मीस्तोत्रम् ॥
धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।
कृपया पार्वती प्राह शंकरं करुणाकरम् ॥
देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
दरिद्र दलनोपायमंजसैव धनप्रदम् ॥
शिव उवाच पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥
स सीतं सानुजं रामं सांजनेयं सहानुगम् ।
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥
धनदं श्रद्धानानां सद्यः सुलभकारकम् ।
योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥
पठंतः पाठयंतोऽपि ब्रह्मणैरास्तिकोत्तमैः ।
धनलाभो भवेदाशु नाशमेति दरिद्रता ॥
भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् । प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥
धनदे धनदे देवि दानशीले दयाकरे ।
त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥
धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते ।
सुधनं र्धामिके देहि यजमानाय सत्वरम् ॥
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥
आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके ।
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ॥ समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
शरच्चन्द्रमुखे नीले नील नीरज लोचने ॥
चंचरीक चमू चारु श्रीहार कुटिलालके ।
मत्ते भगवती मातः कलकण्ठरवामृते ॥ हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
रूप लावण्य तारूण्य कारूण्य गुणभाजने ॥
क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे । रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ॥
प्रयच्छ यजमानाय धनं धर्मेकसाधनम् ।
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥
कृपया करुरागारे प्रार्थितं कुरु मे शुभे ।
वसुधे वसुधारूपे वसु वासव वन्दिते ॥
धनदे यजमानाय वरदे वरदा भव । ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ॥
स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ॥
पार्वतीशप्रसादेन सुरेश किंकरेरितम् ।
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥ सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥
॥ इति श्री धनलक्ष्मी स्तोत्रं सम्पूर्णम् ॥
नर्मदा स्तोत्र
सविंदुसिंधु-सुस्खलत्तरंगभंगरंजितं, द्विषत्सुपापजात-जातकारि-वारिसंयुतं
कृतांतदूत कालभूत-भीतिहारि वर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .१.
त्वदंबु लीनदीन मीन दिव्य संप्रदायकं, कलौमलौघभारहारि सर्वतीर्थनायकं
सुमत्स्य, कच्छ, तक्र, चक्र, चक्रवाक् शर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .२.
महागभीर नीरपूर - पापधूत भूतलं, ध्वनत समस्त पातकारि दारितापदाचलं.
जगल्लये महाभये मृकंडुसूनु - हर्म्यदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .३.
गतं तदैव मे भयं त्वदंबुवीक्षितं यदा, मृकंडुसूनु शौनकासुरारिसेवितं सदा.
पुनर्भवाब्धिजन्मजं भवाब्धि दु:खवर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .४.
अलक्ष्य-लक्ष किन्नरामरासुरादि पूजितं, सुलक्ष नीरतीर - धीरपक्षि लक्षकूजितं.
वशिष्ठ शिष्ट पिप्पलादि कर्ममादिशर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .५.
सनत्कुमार नाचिकेत कश्यपादि षट्पदै, घृतंस्वकीय मानसेषु नारदादि षट्पदै:,
रवींदु रन्तिदेव देवराज कर्म शर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .६.
अलक्ष्यलक्ष्य लक्ष पाप लक्ष सार सायुधं, ततस्तु जीव जंतु-तंतु भुक्ति मुक्तिदायकं.
विरंचि विष्णु शंकर स्वकीयधाम वर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .७.
अहोsमृतं स्वनं श्रुतं महेशकेशजातटे, किरात-सूत वाडवेशु पण्डिते शठे-नटे.
दुरंत पाप-तापहारि सर्वजंतु शर्मदे, त्वदीय पादपंकजं नमामि देवी नर्मदे .८.
इदन्तु नर्मदाष्टकं त्रिकालमेव ये यदा, पठंति ते निरंतरं न यांति दुर्गतिं कदा.
सुलक्ष्य देह दुर्लभं महेशधाम गौरवं, पुनर्भवा नरा न वै विलोकयंति रौरवं. ९.
इति श्रीमदशंकराचार्य स्वामी विरचितं नर्मदाष्टकं सम्पूर्णं
।। नवदुर्गास्तोत्रम् ।।
सर्वेऽत्र कवयः सन्तु
सर्वे सन्तु च लेखकाः ।
गद्यपद्यमाध्यमेन
सर्वैः स्तूयेत शारदा ।।1।।
धान्यदे हर्षदे देवि
कृषकानन्ददायिनि।
सद्यः स्वहन्यमानेषु
प्रसन्ना भव सर्वदे।।2।।
सतीनाम्नी शम्भुपत्नी
पार्वती साऽन्यजन्मनि ।
नमामस्तां शैलपुत्रीं
शारदीयमहोत्सवे ।।3।।
अपर्णा ध्यानमग्ना या
कठोरं तापसङ्करी ।
ब्रह्मणा (तपसा) शाङ्करी जाता
नमस्ते ब्रह्मचारिणि ।।4।।
मनःशान्तिकल्याणसौख्यादिसर्वं
ददातु क्षमां सिंहपृष्ठासने त्वम् ।
शशीवास्ति कान्तिश्च घण्टेव नादो
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।5।।
नमः कालरूपे सुपाहि त्रिलोकान्
धनुःशङ्खचक्रादिशस्त्रान् करेषु ।
त्वया नाशिता मे विपन्ना ह्यवस्था
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।6।।
यया ब्रह्माण्डमुत्पन्नं
स्मितहासेन केवलम् ।
आद्यशक्तिश्च विख्याता
कूष्माण्डायै नमो नमः ।।7।।
सिंहासनाष्टबाहुर्या
सूर्यमण्डलवासिनी ।
सूर्यतेजोधारिणी या
कूष्माण्डायै नमो नमः ।।8।।
स्कन्दमाता शरण्या या
चतुर्बाहुसमन्विता ।
पद्मासना पद्महस्ता
मोक्षमार्गप्रदायिनी ।।9।।
महिषासुरनाशाय
कात्यायनेन पूजिता ।
सिंहारूढासिहस्ता या
कात्यायनि नमोऽस्तु ते ।।10।।
नमः कृष्णवर्णे नमो मुक्तकेशे
भयंकारिणी त्वं शुभंदायिनी त्वम्।
नमो भूतप्रेतादिभीतत्रिनेत्रे
नमः कालरात्र्यै जगत्त्वं सुपाहि।।11।।
महाशैलजा या महादेवजाया
महाश्वेतपद्मा महाश्वेतवर्णा ।
महाशान्तशीला महागौरवी या
महाशूलहस्ते मही रक्षणीया ।।12।।
शिवश्चाष्टसिद्धिंगतो ध्यानकाले
तवैव प्रसादेन साऽर्धाङ्गशोभा ।
मनोकामनाः पूर्णकर्त्री च भर्त्री
सदा त्वां नुमो हे सुखंसिद्धिदात्रि ।।13।।
।। इति श्रीहरिविरचितं नवदुर्गास्तोत्रं सम्पूर्णम् ।।
बुद्धिस्तोत्र
स्त्रोत्र संग्रह
याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्दाहीनं च दुःखितम् ॥ १ ॥
ज्ञानं देहि स्मृतिं विद्दां शक्तिं शिष्यप्रबोधिनीम् ।
ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ २ ॥
प्रतिभां सतसभायां च विचार क्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ३ ॥
यथांकुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरुपा परमा ज्योतीरुपा सनातनी ॥ ४ ॥
सर्व विद्दाधिदेवी या तस्यै वाण्यै नमोनमः ।
विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥ ५ ॥
तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः ।
व्याख्यास्वरुपा सा देवी व्याख्याधिष्ठातृरुपिणी ॥ ६ ॥
यया विनाप्रसंख्यावान संख्यां कर्तुं न शक्यते ।
कालसंख्यारुपा या तस्यै देव्यै नमोनमः ॥ ७ ॥
भ्रमसिद्धान्तरुपा या तस्यै देव्यै नमोनमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरुपिणी ॥ ८ ॥
प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ ९ ॥
बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा जगाम भगवानात्मा श्रीकृष्ण ईश्र्वरः ॥ १० ॥
उवाच स च तां स्तौहि वाणिमिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ ११ ॥
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।
यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ १२ ॥
बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा तां च तुष्टाव संत्रस्त कश्यपाज्ञया ॥ १३ ॥
ततश्र्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ १४ ॥
मौनीभूतश्र्च सस्मार तामेव जगदंबिकाम् ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्र्वरः ॥ १५ ॥
संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद् भवः ॥ १६ ॥
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वतो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ १७ ॥
तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ १८ ॥
क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥ १९ ॥
दिव्यं वर्षसहस्रं च सा त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्रकम् ॥ २० ॥
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्र्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २१ ॥
ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनीद्रैर्मुनिमानवैः ॥ २२ ॥
दैत्येंद्रैश्चसुरैश्र्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥ २३ ॥
यां स्तौतुं किमहं स्तौमि तामेकास्येन मानव: ।
इत्युक्त्वा याज्ञवल्क्यच भक्तिनम्रात्मकंधरः ॥ २४ ॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरुपा महामाया तेन दृष्टाप्युवाच तम् ॥ २५ ॥
सुकवींद्रो भवेत्युक्वा वैकुंठं जगाम हे ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतस्तु यः पठेत् ॥ २६ ॥
सुकवींद्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ।
स पंडितश्च मेघावी सुकवींद्रो भवेद् ध्रुवम् ॥ २७ ॥ ॥
इति श्रीयाज्ञवल्क्य विरचितं बुद्धिस्तोत्रम् संपूर्णम् ॥
महालक्ष्मी स्तोत्र
स्तुति संग्रह
अथ तन्र्त्रोक्तं महालक्ष्मी स्तुतिनमस्तेस्तु महामाये श्री पीठे सुरपूजिते।
शङ्खचक्रगदाहस्ते महालक्ष्मी नमोस्तु ते॥१॥
नमस्ते गरुडारूढे कोलासुर भयङ्करि।
सर्वपापहरे देवि महालक्ष्मी नमोस्तु ते॥२॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयङ्करि।
सर्वदु:खहरे देवि महालक्ष्मी नमोस्तु ते॥३॥
सिद्धिबुद्धिप्रदे देवि भुक्ति मुक्ति प्रदायिनि।
मन्त्रपूते सदा देवि महालक्ष्मी नमोस्तु ते॥४॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि।
योगजे योगसम्भूते महालक्ष्मी नमोस्तु ते॥५॥
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे।
महापापहरे देवि महालक्ष्मी नमोस्तु ते॥६॥
पद्मासनस्थिते देवि परब्रह्म स्वरूपिणि।
परमेशि जगन्मत् महालक्ष्मी नमोस्तु ते॥७॥
श्वेताम्बरधरे देवि नानालङ्कारभूषिते।
जगत्सि्थते जगन्मत् महालक्ष्मी नमोस्तु ते॥८॥
महालक्ष्म्यष्टकं स्तोत्रं य: पठेद्भक्ति मान्नरः॥
सर्वसिद्धिमवापनेति राज्यम् प्रापनेति सर्वदा॥९॥
एककाले पठेन्नित्यम् महापापविनाशनम्।
द्विकालं य: पठेन्नित्यम् धनधान्यसमन्वित॥१०॥
त्रिकालं य: पठेन्नित्यम् महाशत्रुविनाशनम्।
महालक्ष्मीर्भवेन्नित्म् प्रसन्ना वरदा शुभा ॥११॥
॥ इति महालक्ष्मी स्तुति सम्पूर्ण॥
॥ महिषासुरमर्दिनिस्तोत्रम् ॥
अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदिनुते !
गिरिवरविंध्य शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते।
भगवति हे शितिकण्ठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥1॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते !
त्रिभुवनपोषिणि शंकरतोषिणि कल्मषमोषिणि घोषरते।
दनुजनिरोषिणी दुर्मदशोषिणि दुर्मुनिरोषीणी सिन्धुसुते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥2॥
अयि जगदंब कदंब वन प्रियवासिनि तोषीणी हासरते !
शिखरिशिरोमणितुंगहिमालयशृंगनिजालयमध्यगते।
मधुमधुरे मधुकैटभगंजिनि महिषविदारिणी रासरते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥3॥
अयि निजहुँकृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते !
समरविशोषितरोषीत शोणितबीजसमुद्भवं बीजलते।
शिवशिव शुंभनिशुंभमहाहव तर्पितभूतपिशाचरते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥4॥
अयि शतखण्डविखण्डितरुण्डवितुण्डितशुण्डगजाधिपते !
निजभुजदण्डनिपातितचण्डविपाटीतमुण्डभटाधिपते !
रिपुगजगण्डविदारणचण्डपराक्रमशौण्ड मृगाधिपते।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥5॥
धनुरनुशंगरणक्षणसंग परिस्फुरदंगनटत्कटके !
कनकपिशंगपृषत्कनिषंग रसद्भटशृंगहताबटुके ।
हतचतुरंगबलक्षितिरंगघटद् बहुरंगरटद् बटुके !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥6॥
अयि रणदुर्मदशत्रुवधाद्धुरदुर्धरनिर्भरशक्तिभृते !
चतुरविचार धुरीणमहाशय दूतकृतप्रमथाधिपते।
दुरितदुरीह दुराशयदुर्मति दानवदूत दुरंतगते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥7॥
अयि शरणागतवैरिवधू जनवीरवराभयदायिकरे !
त्रिभुवनमस्तकशूलविरोधि शिरोधिकृतामलशूलकरे।
दुमिदुमितामरदुंदुभिनाद मुहुर्मुखरीकृतदिंनिकरे !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥8॥
सुरललनाततथेयितथेयित थाभिनियोत्तरनृत्यरते !
कृतकुकुथाकुकुथोदिडदाडिक तालकुतूहलगानरते !
धुधुकुटधूधुटधिन्धिमितध्वनि घोरम्रदंगनिनादरते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥9॥
जय जय जाप्यजये जयशब्दपरस्तुतितत्परविश्वनुते !
झणझणझिंझिंमझिंकृत नूपुरशिंजितमोहितभूतपते।
नटितनटार्धनटीनटनायक नाटननाटीत नाट्यरते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥10॥
अयि सुमनः सुमनः सुमनः सुमनः सुमनोरमकांतियुते
श्रित रजनी रजनी रजनी रजनी रजनीकरवक्त्र भ्रिते।
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराभिद्रिते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥11॥
महितमहाहवमल्लमतल्लिकवल्लितरल्लितभल्लिरते !
विरचितवल्लिकपालिकपल्लिकझिल्लिकभिल्लिकवर्गवृते।
श्रुतकृतफुल्लिसमुल्लसितारुणतल्लजपल्लवसल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥12॥
अयि सुदतीजन लालसमानसमोहनमन्मथराजसुते !
अविरलगण्डगलन्मदमेदुर मत्तमतंगज राजगते !
त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥13॥
कमलदलामलकोमलकांतिकलाकलितामलभालतले !
सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले।
अलिकुलसंकुलकुंतलमण्डलमौलिमिलद्बकुलालिकुले !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥14॥
करमुरलीरववर्जितकूजित लज्जितकोकिलमंजुमते !
मिलितमिलिन्दमनोहरगुंजितरंजितशैलनिकुंजगते।
निजगणभूतमहाशबरीगण रंगणसंभृतकेलितले !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥15॥
कटितटपीतदुकूलविचित्रमयूख तिरस्कृतचंडरुचे !
जितकनकाचलमौलिमदोर्जितगर्जितकुंजरकुंभकुचे !
प्रणतसुरासुरमौलिमणिस्फुर दंशुलसन्नखचंद्ररुचे ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥16॥
विजितसहस्रकरैकसहस्र करैकसहस्र करैकनुते !
कृतसुरतारक संगरतारक संगरतारक सूनुनुते ।
सुरथसमाधि समानसमाधि समानसमाधिसुजाप्यरते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥17॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे !
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परं पदमस्त्विती शीलयतो मम किं न शिवे !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥18॥
कनकलसत्कलशीकजलैरनुसिंचतितेंगणरंगभुवं !
भजति स किं न शचीकुचकुंभनटीपरिरंभसुखानुभवम् ।
तव चरणं शरणं करवाणि सुवाणी पथं मम देहि शिवं !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥19॥
तव विमलेन्दुकलं वदनेन्दुमलं कलयन्ननु कूलयते !
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवमानधने भवती कृपया किमु न क्रियते !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥20॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे !
अयि जगतो जननीति यथासि मया सितथा नुमतासि रमे ।
यदुचितमत्र भवत्पुरगं कुरु शाम्भवि देवी दयां कुरु में !
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥21॥
स्तुतिमीमां स्तिमितः सुसमाधिना नियमितो यमतो नुदिनं पठेत् !
परमया रमया स निषेव्यते परिजनों रिजनोपि च तं भजेत् ! २२
महिषासुरमर्दिनी स्तोत्र
॥ महिषासुरमर्दिनिस्तोत्रम् ॥
अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते
गिरिवरविंध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते।
भगवति हे शितिकण्ठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते।
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥२॥
अयि जगदंब मदंब कदंबवनप्रियवासिनि हासरते
शिखरिशिरोमणितुङ्गहिमालयशृंगनिजालयमध्यगते।
मधुमधुरे मधुकैटभगंजिनि कैटभभंजिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥३॥
अयि शतखण्डविखण्डितरुण्डवितुण्डितशुण्डगजाधिपते
रिपुगजगण्डविदारणचण्डपराक्रमशुण्ड मृगाधिपते।
निजभुजदण्डनिपातितखण्डनिपातितमण्डभटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥४॥
अयि रणदुर्मदशत्रुवधोदितदुर्धरनिर्जरशक्तिभृते
चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते।
दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतांतमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥५॥
अयि शरणागतवैरिवधूवरवीरवराभयदायकरे
त्रिभुवनमस्तकशूलविरोधिशिरोधिकृतामलशूलकरे।
दुमिदुमितामरदुंदुभिनादमहोमुखरीकृततिग्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥६॥
अयि निजहुँकृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते
समरविशोषितशोणितबीजसमुद्भवशोणितबीजलते।
शिवशिव शुंभनिशुंभमहाहवतर्पितभूतपिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥७॥
धनुरनुसंगरणक्षणसंगपरिस्फुरदंगनटत्कबके
कनकपिशंगपृषत्कनिषंगरसद्भटशृंगहतावटुके।
कृतचतुरङ्गबलक्षितिरङ्गघटद्बहुरङ्गरटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥८॥
सुरललनाततथेयितथेयितथाभिनयोत्तरनृत्यरते
हासविलासहुलासमयि प्रणतार्तजनेऽमितप्रेमभरे।
धिमिकिटधिक्कटधिकटधिमिध्वनिघोरमृदंगनिनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥९॥
जय जय जप्यजये जयशब्दपरस्तुतितत्परविश्वनुते
झणझणझिञ्जिमिझिंकृतनूपुरसिंजितमोहितभूतपते।
नटितनटार्धनटीनटनायकनाटितनाट्यसुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१०॥
अयि सुमनःसुमनः सुमनः सुमनः सुमनोहरकांतियुते
श्रितरजनीरजनीरजनीरजनीरजनीकरवक्त्रवृते।
सुनयनविभ्रमरभ्रमरभ्रमरभ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥११॥
सहितमहाहवमल्लमतल्लिकमल्लितरल्लकमल्लरते
विरचितवल्लिकपल्लिकमल्लिकझिल्लिकभिल्लिकवर्गवृते।
सितकृतफुल्लिसमुल्लसितारुणतल्लजपल्लवसल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१२॥
अविरलगण्डगलन्मदमेदुरमत्तमतङ्गजराजपते
त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते।
अयि सुदती जनलालसमानसमोहनमन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१३॥
कमलदलामलकोमलकांतिकलाकलितामलभाललते
सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले।
अलिकुलसङ्कुलकुवलयमण्डलमौलिमिलद्भकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१४॥
करमुरलीरववीजितकूजितलज्जितकोकिलमञ्जुमते
मिलितपुलिन्दमनोहरगुञ्जितरञ्जितशैलनिकुञ्जगते।
निजगुणभूतमहाशबरीगणसद्गुणसंभृतकेलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१५॥
कटितटपीतदुकूलविचित्रमयूखतिरस्कृतचंद्ररुचे
प्रणतसुरासुरमौलिमणिस्फुरदंशुलसन्नखचंद्ररुचे।
जितकनकाचलमौलिपदोर्जितनिर्झरकुंजरकुंभकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१६॥
विजितसहस्रकरैकसहस्रकरैकसहस्रकरैकनुते
कृतसुरतारकसङ्गरतारकसङ्गरतारकसूनुसुते।
सुरथसमाधिसमानसमाधिसमाधिसमाधिसुजातरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१७॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत्।
तव पदमेव परंपदमेवमनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१८॥
कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुते गुण रङ्गभुवं
भजति स किं न शचीकुचकुंभतटीपरिरंभसुखानुभवम्।
तव चरणं शरणं करवाणि नतामरवाणिनिवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१९॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥२०॥
अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रते।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥२१॥
रात्रिसूक्तम्
अथ तन्त्रोक्तं रत्रिसूक्त्म्
ॐ विश्र्वेश्र्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वशट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥
अर्ध्मात्रास्थिता नित्याअ यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ३ ॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ।
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये ॥ ५ ॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥ ६ ॥
प्रकृतीस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रैर्महारात्रिर्मोहरात्रिश्र्च दारूणा ॥ ७ ॥
त्वं श्रीस्त्वमीश्र्वरि त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८ ॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९ ॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्र्वरी ॥ १० ॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ ११ ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्र्वरः ॥ १२ ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ १३ ॥
सा त्वमित्थं प्रभावऐः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्र्च क्रियतामस्य मन्तुमेतौ महासुरौ ॥ १५ ॥
॥ललितापञ्चरत्नम्॥
प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥२॥
प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥
॥इति श्रीललितापञ्चरत्नम्॥
आनन्दलहरी
आनंदलहरी भगवती भुवनेश्वरी (पार्वती) की स्तुति में विरचित 103 स्तोत्रों का संग्रह है जिसे आद्य शंकराचार्य की कृति कहा जाता है। इसका 'सौंदर्यलहरी' नाम विशेष प्रसिद्ध है। कुछ विद्वानों का अब यह मत हो चला है कि यह रचना बाद के किसी शंकराचार्य की है किंतु जनमत अभी इस पक्ष में नहीं है। काव्य की दृष्टि से तो यह रचना सौंदर्यपूरति है ही, तांत्रिक रहस्यों के समावेश के कारण इसमें दुरूहता भी भरी हुई है। आश्चर्य होता है कि आद्य शंकराचार्य ने अपनी 32 वर्षों की अल्पायु में अन्य कृतियों, यात्राओं आदि के बीच समय निकालकर इसकी रचना कैसे की। भारत के सभी मतानुयायी और भाषायी क्षेत्रों में इसका समादर है तथा कई विदेशी भाषाओं में भी इसका अनुवाद हो चुका है। भुवनेश्वरी (पार्वती) के स्तुतिरूप में कहे गए इन 103 श्लोकों में महान् तांत्रिक ज्ञान निहित है।
इसका 11वां श्लोक विशेष महत्वपूर्ण है (तंत्रशास्त्र की दृष्टि से) जिसमें 43 दलोंवाले 'श्रोयंत्र' का वर्णन है। मध्य में बिंदु के स्थान पर शिव हैं। इसके बाद चतुरस्र यंत्र में श्रीकंठ आदि चार शंकर, पाँच कोणों में पाँच शिवयुवती, इसके बाद नौ कोणों में नौ मूल प्रकृति और बाद के आठ कोणों में कुसुमा आदि आठ देवियाँ। तब 16 कोणों में श्री आदि 16 देवियाँ और फिर तीन रेखाओं में चतुर्द्वार। इस प्रकार 43 कोणों को माँ भुवनेश्वरी के चरण बतलाकर प्रत्येक कोण में एक देवी की स्थापना की गई है। यह तांत्रिकों के अध्ययन साधना की सामग्री प्रस्तुत करता है।
कुछ पांडुलिपियों में केवल 100 स्तांत्र मिलते हैं।
स्तोत्र
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदामन्येषां केषां कथय कथमस्मिन्नवसरः॥१॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे॥२॥
मुखे ते तांबूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम्॥३॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभोरंभोरुहचटुकचक्षुर्विजयते॥४॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा।
तटित्पीता पीतांबरललितमज्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी॥५॥
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका॥६॥
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्॥७॥
विधात्री धर्माणां त्वमसि सकलांनायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी॥८॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः॥९॥
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः॥१०॥
महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥११॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम्।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम्॥१२॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत्॥१३॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम्।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रंयं त्रिभुवनमहाराजगृहिणि॥१४॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं तॆलोक्यं कृतकरपुटः सिद्धिनिकरः।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना॥१५॥
वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः।
समग्रा सामग्री जगति विदितैव स्मररिपो-
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा॥१६॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः सङ्गत्याः फलमिति च कल्याणि कलये॥१७॥
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः॥१८॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम्।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपङ्केरुहदृशाम्॥१९॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति॥२०॥
॥आनन्दलहरी संपूर्णा॥
कामाक्षी स्तोत्रम्
स्त्रोत्र संग्रह
कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां
कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् ।
काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां
कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥
काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां
चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् ।
ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां
कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥
ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां
वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति यां योगिनः ।
बालां फाल_विलोचनां नव_जपा_वर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंस_सुभगां वन्दे महेश_प्रियाम् ॥३॥
यत्_पादाम्बुज_रेणु_लेशम् अनिशं लब्ध्वा विधत्ते विधिर्_
विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः
कामाक्षीं अति_चित्र_चारु_चरितां वन्दे महेश_प्रियाम् ॥४॥
सूक्ष्मात् सूक्ष्म_तरां सुलक्षित_तनुं क्षान्ताक्षरैर्लक्षितां
वीक्षा_शिक्षित_राक्षसां त्रि_भुवन_क्षेमङ्करीम् अक्षयाम् ।
साक्षाल्लक्षण_लक्षिताक्षर_मयीं दाक्षायणीं सक्षिणीं
कामाक्षीं शुभ_लक्षणैः सुललितां वन्दे महेश_प्रियाम् ॥५॥
ओङ्काराङ्गण_दीपिकाम् उपनिषत्_प्रासाद_पारावतीम्
आम्नायाम्बुधि_चन्द्रिकाम् अध_तमः_प्रध्वंस_हंस_प्रभाम् ।
काञ्ची_पट्टण_पञ्जराऽऽन्तर_शुकीं कारुण्य_कल्लोलिनीं
कामाक्षीं शिव_कामराज_महिषीं वन्दे महेश_प्रियाम् ॥६॥
ह्रीङ्कारात्मक_वर्ण_मात्र_पठनाद् ऐन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीम् अनुदिनं भिक्षा_प्रदान_क्षमाम् ।
विश्वाघौघ_निवारिणीं विमलिनीं विश्वम्भरां मातृकां
कामाक्षीं परिपूर्ण_चन्द्र_वदनां वन्दे महेश_प्रियाम् ॥७॥
वाग्_देवीति च यां वदन्ति मुनयः क्षीराब्धि_कन्येति च
क्षोणी_भृत्_तनयेति च श्रुति_गिरो याम् आमनन्ति स्फुटम् ।
एकानेक_फल_प्रदां बहु_विधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्ति_भञ्जन_परां वन्दे महेश_प्रियाम् ॥८॥
मायाम् आदिम्_कारणं त्रि_जगताम् आराधिताङ्घ्रि_द्वयाम्
आनन्दामृत_वारि_राशि_निलयां विद्यां विपश्चिद्_धियाम् ।
माया_मानुष_रूपिणीं मणि_लसन्मध्यां महामातृकां
कामाक्षीं करि_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥९॥
कान्ता काम_दुधा करीन्द्र_गमना कामारि_वामाङ्क_गा
कल्याणी कलितावतार_सुभगा कस्तूरिका_चर्चिता
कम्पा_तीर_रसाल_मूल_निलया कारुण्य_कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची_पुरी देवता ॥१०॥
कीलक स्त्रोत्र
स्त्रोत्र संग्रह
अथ कीलकम्
ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः अनुष्टुप छन्दः महासरस्वती देवता
श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन विनियोगः ।
ॐ नमश्चण्डिकायै ॥
मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥१॥
सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥२॥
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ।
एतेन स्तुवतां देवि स्तोत्रमात्रेण सिद्ध्यति ॥३॥
न मन्त्रो नौषधं तत्र न किच्ञिदपि विद्यते ।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ॥४॥
समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः ।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥६॥
सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः |
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थंरुपेण कीलेन महादेवेन कीलितम् ॥८॥
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥९॥
न चैवाप्यटतस्तस्य भयं क्कापीह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥१०॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥११॥
सौभाग्यादि च यत्किच्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्तप्रसादेन तेन जाप्यमिदं शुभम् ॥१२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥१३॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः ॥१४॥
क्षमा प्रार्थना
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमति मां मत्वा क्षमस्व परमेश्वरी ॥१॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥२॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरी ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥४॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकमप्योऽहं यथेच्छसि तथा कुरु ॥५॥
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥६॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥७॥
गृह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥८॥
॥ श्रीदुर्गार्पणमस्तु ॥
श्रीसूक्तम्
स्त्रोत्र संग्रह
ॐ हिरण्यवर्णाम हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम्॥३॥
कांसोस्मितां हिरण्यप्राकारां आद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम्॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियंलोके देव जुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोथ बिल्व:।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी:॥६॥
उपैतु मां देवसख: कीर्तिश्चमणिना सह।
प्रादुर्भुतो सुराष्ट्रेऽस्मिन् कीर्तिमृध्दिं ददातु मे॥७॥
क्षुत्पपासामलां जेष्ठां अलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृध्दिं च सर्वानिर्णुद मे गृहात॥८॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरिं सर्वभूतानां तामिहोपह्वये श्रियम्॥९॥
मनस: काममाकूतिं वाच: सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्री: श्रेयतां यश:॥१०॥
कर्दमेनप्रजाभूता मयिसंभवकर्दम।
श्रियं वासयमेकुले मातरं पद्ममालिनीम्॥११॥
आप स्रजन्तु सिग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥
आर्द्रां पुष्करिणीं पुष्टि पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥
आर्द्रां य: करिणीं यष्टीं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मी जातवेदो म आवह॥१४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम्॥१५॥
य: शुचि: प्रयतोभूत्वा जुहुयाादाज्यमन्वहम्।
सूक्तं पञ्चदशर्च च श्रीकाम: सततं जपेत्॥१६॥
पद्मानने पद्मउरू पद्माक्षि पद्मसंभवे।
तन्मे भजसि पद्मक्षि येन सौख्यं लभाम्यहम्॥१७॥
अश्वदायै गोदायै धनदायै महाधने।
धनं मे लभतां देवि सर्वकामांश्च देहि मे॥१८॥
पद्मानने पद्मविपत्रे पद्मप्रिये पद्मदलायताक्षि।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि संनिधस्त्वं॥१९॥
पुत्रपौत्रं धनंधान्यं हस्ताश्वादिगवेरथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे॥२०॥
धनमग्निर्धनं वायुर्धनं सूर्योधनं वसु।
धनमिन्द्रो बृहस्पतिर्वरूणं धनमस्तु मे॥२१॥
वैनतेय सोमं पिब सोमं पिबतु वृतहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन:॥२२॥
न क्रोधो न च मात्सर्य न लोभो नाशुभामति:।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्॥२३॥
सरसिजनिलये सरोजहस्ते धवलतरांसुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमह्यम्॥२४॥
विष्णुपत्नीं क्षमां देवी माधवी माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥२५॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।
तन्नो लक्ष्मी: प्रचोदयात्॥२६॥
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायु:॥२७॥
॥इति श्रीसूक्तं समाप्तम॥
सिद्धकुज्जिकास्तोत्रम्
शिव उवाच
शृणु देवि प्रवक्ष्यामि कुज्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥
न कवचं नार्गालास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चमान् ॥ २ ॥
कुज्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अतिगुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भ्नोच्चाटनादिकम् ।
पाठणमात्रेण संसिध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥
मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे ॥ ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ इतिमन्त्रः ॥
नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ १ ॥
नमस्ते शुम्भ्रहन्त्र्यै च निशुम्भासुरघातिनि ॥ २ ॥
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ।
ऐंकारी सॄष्टिरुपायै ह्रिंकारी प्रतिपालिका ॥ ३ ॥
क्लींकारी कामरुपिण्यै बीजरुपे नमोऽस्तु ते ।
चामुण्डा चण्ड्घाती च यैकारी वरदायिनी ॥ ४ ॥
विच्चे चाभयादा नित्यं नमस्ते मन्त्ररुपिणि ॥ ५ ॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्र्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ ६ ॥
हुं हुं हुंकाररुपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ७ ॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धीजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥
पां पीं पूं पार्वती पर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ ८ ॥
इदं तु कुञ्जकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥
इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।
Translation - भाषांतर
शिव म्हणाले, हे देवी, मी तुला उत्त्म असे कुञ्जिकास्तोत्र साम्गतो. ऐक. या स्तोत्रमंत्राच्या प्रभावाने देवीपाठाचा जप कल्याणकारक होतो. ॥ १ ॥
कवचाने, अर्गलेने, कीलकाने, रहस्यत्रयाने, रात्रिसूक्त-देवीसूक्ताने, ध्यानाने, न्यासांनी तसेच पूजेने देवीपाठाचे फल मिळ्त नाही. ते केवळ कुञ्जिकापाठाने मिळ्ते. हे देवी, हे अत्यंत गुप्त असून देवांनाही दुर्मिळ आहे. ॥ २-३ ॥
हे पार्वति, हे स्वयोनीप्रमाणे प्रयत्नपूर्वक गुप्त ठेवावे. या स्तोत्राच्या केवळ पठणाने जारण-मारण, संमोहन, वशीकरण, स्तम्भन, उच्चाटन इत्यादी सिद्ध होतात.म्हणून हे स्तोत्र उत्तम आहे. ॥ ४ ॥
हे स्तोत्र सप्तशतीमंत्राच्या जागृतीसाठी आवश्यक आहे. हे पार्वती, ते भक्ती नसलेल्याला मुळीच देऊ नये.
गुप्त ठेवून तू त्याचे रक्षण कर . हे देवी, जो कुञ्जिकेचा पाठ न करता सप्तशतीचा पाठ करतो, त्याला
अरण्यरुदनाप्रमाणे सिद्धि मिळत नाही.
सिद्धकुञ्जिकास्तोत्र संपूर्ण
ll नीलसरस्वती स्तोत्र ll
घोररूपे महारावे सर्वशत्रुभयङ्करि
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् I १ I
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते I
जाड्यपापहरे देवि त्राहि मां शरणागतम् I २I
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि I
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् I ३I
सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते I
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् I ४I
जडानां जडतां हन्ति भक्तानां भक्तवत्सला I
मूढतां हर मे देवि त्राहि मां शरणागतम् I ५I
वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नमः I
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् I ६I
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे I
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम् I ७I
इन्द्रादिविलसद्द्वन्द्ववन्दिते करुणामयि I
तारे ताराधिनाथास्ये त्राहि मां शरणागतम् I ८I
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः I
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा I ९I
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् I
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् I १०I
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वितः I
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते I ११I
पीडायां वापि संग्रामे जाड्ये दाने तथा भये I
य इदं पठति स्तोत्रं शुभं तस्य न संशयः I १२I
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् I १३I
इति नीलसरस्वती स्तोत्रं संपूर्णं
॥श्रीविन्ध्येश्वरीस्तोत्र॥
निशुम्भशुम्भगर्जनी, प्रचण्डमुण्डखण्डिनी।
बनेरणेप्रकाशिनी, भजामिविन्ध्यवासिनी॥
त्रिशूलमुण्डधारिणी, धराविघातहारिणी।
गृहे-गृहेनिवासिनी, भजामिविन्ध्यवासिनी॥
दरिद्रदुःखहारिणी, सदाविभूतिकारिणी।
वियोगशोकहारिणी, भजामिविन्ध्यवासिनी॥
लसत्सुलोललोचनं, लतासनंवरप्रदं।
कपाल-शूलधारिणी, भजामिविन्ध्यवासिनी॥
कराब्जदानदाधरां, शिवाशिवांप्रदायिनी।
वरा-वराननांशुभांभजामिविन्ध्यवासिनी॥
कपीन्द्नजामिनीप्रदां, त्रिधास्वरूपधारिणी।
जले-थलेनिवासिनी, भजामिविन्ध्यवासिनी॥
विशिष्टशिष्टकारिणी, विशालरूपधारिणी।
महोदरेविलासिनी, भजामिविन्ध्यवासिनी॥
अघनाशकगायत्रीस्तोत्र ॥*
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तुते ॥
त्वमेव संध्या गायत्री सावित्रि च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥
हंसस्था गरुडारूढा तथा वृषभवाहिनी ।
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥
आनन्दजननी दुर्गा दशधा परिपठ्यते ।
वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥
गरिष्ठा च वराही च वरारोहा च सप्तमी ।
नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ॥
भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥
भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी ।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥
महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥
कमला विष्णुलोके च गायत्री ब्रह्मलोकगा ।
रुद्रलोके स्थिता गौरी हरार्धांगीनिवासिनी ॥
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥
ततः परापरा शक्तिः परमा त्वं हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥
गंगा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥
गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिंगला चैव सुषुम्णा च तृतीयका ॥
गांधारी हस्तिजिह्वा च पूषापूषा तथैव च ।
अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ॥
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ॥
तत्सर्वं त्वं महादेवि श्रिये संध्ये नमोऽस्तु ते ।
इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ॥
महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः ॥
अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥
भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥
यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् ।
लभते नात्र संदेहः सत्यं च नारद ॥
श्रृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते ।
पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितम् ॥
॥ इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ॥
© Copyright 2024 AstroSane, Varanasi | Powered by : Max Multisoft