Budh grah Stotra Stotra Sangrah

Budh grah Stotra Stotra Sangrah

II बुधकवचं II 


II अथ श्रीबुधकवचं II 
II श्री गणेशाय नमः II 
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I  

अनुष्टुप् छंदःI बुधो देवता I 
बुधपीडाशमनार्थं जपे विनियोगः II 


बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I 
पितांबरधरः पातु पितमाल्यानुलेपनः II १ II 


कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I 
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II 


घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I 
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II ३ II 


वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I 
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II ४ II 


जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I 
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II ५ II 


एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I 
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II ६ II 


आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I 
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II 
 II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II

More in Stotra Sangrah

Stay Connected With Divine Wisdom

Subscribe to receive spiritual insights, festival alerts, exclusive offers and puja reminders directly in your inbox.

100% Authentic Products
Secure Payment & Easy Booking
Pan India Delivery
Easy Returns Hassle Free
24/7 Customer Support