भैरव अष्टोत्तरशतनाम स्तोत्रम्

भैरव अष्टोत्तरशतनाम स्तोत्रम्

ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः।

क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट्॥1॥

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः।

रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः॥2॥

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः।

त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः॥3॥

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः।

अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः॥4॥

धनदोऽधनहारि च धनवान्प्रीतिवर्धनः।

नागहारो नागकेशो व्योमकेशो कपालभृत्॥5॥

कालः कपालमालि च कमनीयः कलानिधिः।

त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत्॥6॥

त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः।

बटुको बटुवेशश्च खट्वाङ्गवरधारकः॥7॥

भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः।

धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः॥8॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः।

अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः॥9॥

अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः।

भूधरो भुधराधीशो भूपतिर्भूधरात्मजः॥10॥

कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान्।

जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा॥11॥

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः।

बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः॥12॥

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः।

कामी कलानिधिः कान्तः कामिनीवशकृद्वशी॥13॥

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः।

सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओम्
 

More in Stotra Sangrah

Stay Connected With Divine Wisdom

Subscribe to receive spiritual insights, festival alerts, exclusive offers and puja reminders directly in your inbox.

100% Authentic Products
Secure Payment & Easy Booking
Pan India Delivery
Easy Returns Hassle Free
24/7 Customer Support